श्री सुब्रह्मण्य स्तोत्रम्
आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः।
लोकपालाः सर्वदेवाः चराचरमिदं जगत्
॥ १ ॥
सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम्।
अप्रमेयं महाशान्तं अचलं निर्विकारकम्
॥ २ ॥
निरालम्बं निराभासं सत्तामात्रमगोचरम्।
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः
॥ ३ ॥
एवमज्ञानगाढान्धतमोपहतचेतसः।
न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे
॥ ४ ॥
विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम्।
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च
॥ ५ ॥
तत्तदुक्ताः कथाः सम्यक् नित्यसद्गतिप्राप्तये।
भक्त्या श्रुत्वा पठित्वा च दृष्ट्या सम्पूज्य श्रद्धया
॥ ६ ॥
सर्वान्कामानवाप्नोति भवदाराधनात्खलु।
मम पूजामनुग्राह्य सुप्रसीद भवानघ
॥ ७ ॥
चपलं मन्मथवशममर्यादमसूयकम्।
वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो
॥ ८ ॥
सुब्रह्मण्यस्तोत्रमिदं ये पठन्ति द्विजोत्तमाः।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः
॥ ९ ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।