श्री सुब्रह्मण्य कवच स्तोत्रम्
अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य, ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, श्रीसुब्रह्मण्यो देवता, ॐ नम इति बीजं, भगवत इति शक्तिः,
सुब्रह्मण्यायेति कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः॥
करन्यासः –
ॐ सां अङ्गुष्ठाभ्यां नमः।
ॐ सीं तर्जनीभ्यां नमः।
ॐ सूं मध्यमाभ्यां नमः।
ॐ सैं अनामिकाभ्यां नमः।
ॐ सौं कनिष्ठिकाभ्यां नमः।
ॐ सः करतलकरपृष्ठाभ्यां नमः॥
अङ्गन्यासः –
ॐ सां हृदयाय नमः।
ॐ सीं शिरसे स्वाहा।
ॐ सूं शिखायै वषट्।
ॐ सैं कवचाय हुम्।
ॐ सौं नेत्रत्रयाय वौषट्।
ॐ सः अस्त्राय फट्।
भूर्भुवस्सुवरोमिति दिग्बन्धः॥
ध्यानम् ।
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम्।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम्॥ [भीतिप्रणाशोद्यतम्]
लमित्यादि पञ्चपूजा।
ॐ लं पृथिव्यात्मने सुब्रह्मण्याय गन्धं समर्पयामि।
ॐ हं आकाशात्मने सुब्रह्मण्याय पुष्पाणि समर्पयामि।
ॐ यं वाय्वात्मने सुब्रह्मण्याय धूपमाघ्रापयामि।
ॐ रं अग्न्यात्मने सुब्रह्मण्याय दीपं दर्शयामि।
ॐ वं अमृतात्मने सुब्रह्मण्याय स्वादन्नं निवेदयामि।
ॐ सं सर्वात्मने सुब्रह्मण्याय सर्वोपचारान् समर्पयामि।
कवचम् ।
सुब्रह्मण्योऽग्रतः पातु सेनानीः पातु पृष्ठतः।
गुहो मां दक्षिणे पातु वह्निजः पातु वामतः
॥ 1 ॥
शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम्।
नेत्रे मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत्
॥ 2 ॥
मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः।
ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः
॥ 3 ॥
देवसेनापतिर्दन्तान् चिबुकं बहुलोद्भवः।
कण्ठं तारकजित्पातु बाहू द्वादशबाहुकः
॥ 4 ॥
हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः।
हृदयं वह्निभूः पातु कुक्षिं पात्वम्बिकासुतः
॥ 5 ॥
नाभिं शम्भुसुतः पातु कटिं पातु हरात्मजः।
ऊरू पातु गजारूढो जानू मे जाह्नवीसुतः
॥ 6 ॥
जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः।
सर्वाण्यङ्गानि भूतेशः सर्वधातूंश्च पावकिः
॥ 7 ॥
सन्ध्याकाले निशीथिन्यां दिवा प्रातर्जलेऽग्निषु।
दुर्गमे च महारण्ये राजद्वारे महाभये
॥ 8 ॥
तुमुले रण्यमध्ये च सर्वदुष्टमृगादिषु।
चोरादिसाध्वसेऽभेद्ये ज्वरादिव्याधिपीडने
॥ 9 ॥
दुष्टग्रहादिभीतौ च दुर्निमित्तादिभीषणे।
अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्ध्रकृत्
॥ 10 ॥
यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत्।
तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम्
॥ 11 ॥
धर्मार्थी लभते धर्ममर्थार्थी चार्थमाप्नुयात्।
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नुयात्
॥ 12 ॥
यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः।
पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम्
॥ 13 ॥
तेषामेव फलावाप्तिः महापातकनाशनम्।
यः पठेच्छृणुयाद्भक्त्या नित्यं देवस्य सन्निधौ।
सर्वान्कामानिह प्राप्य सोऽन्ते स्कन्दपुरं व्रजेत्
॥ 14 ॥
उत्तरन्यासः ॥
करन्यासः –
ॐ सां अङ्गुष्ठाभ्यां नमः।
ॐ सीं तर्जनीभ्यां नमः।
ॐ सूं मध्यमाभ्यां नमः।
ॐ सैं अनामिकाभ्यां नमः।
ॐ सौं कनिष्ठिकाभ्यां नमः।
ॐ सः करतलकरपृष्ठाभ्यां नमः॥
अङ्गन्यासः –
ॐ सां हृदयाय नमः।
ॐ सीं शिरसे स्वाहा।
ॐ सूं शिखायै वषट्।
ॐ सैं कवचाय हुम्।
ॐ सौं नेत्रत्रयाय वौषट्।
ॐ सः अस्त्राय फट्।
भूर्भुवस्सुवरोमिति दिग्विमोकः॥
इति श्री सुब्रह्मण्य कवच स्तोत्रम्।